________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [121 ] णाभावेन वधाभावाद्वधनिवृत्तिरपीति / एतदेव समर्थयतिअन्झीणे पुवकए न मरइ झीणे य जीवइ न कोइ। सयमेव ता कह वहो उवकमाओ वि नो जुत्तो।१९३। [ अक्षीणे पूर्वकृते न म्रियते क्षीणे च जीवति न कश्चित् / स्वयमेव तत्कथं वधः उपक्रमादपि न युक्तः // 193 // ] अक्षीणे पूर्वकृते आयुष्ककर्मणि न म्रियते कश्चित् , स्वकृतकर्मफलं प्रत्युपभोगाभावप्रसङ्गात् , क्षीणे च तस्मिन् जीवति न कश्चित् अकृताभ्यागमकृतनाशप्रसङ्गात् , स्वयमेवात्मनैवैतदेवमिति तत्तस्मात्कथं वधो निमित्ताभावात् नास्त्येवेत्यभिप्रायः / कर्मोपक्रमाद्भविष्यतीत्येतदाशङ्कयाह उपक्रमादपि अपान्तराल एव तत्क्षयलक्षणान्न युक्त इति / अत्रैवोपपत्तिमाहकम्मोवक्कामिज्जइ अपत्तकालं पि जइ तओ पत्ता। अकयागमकयनासा मुक्खाणासासया दोसा।१९४॥ [कर्मोपक्राम्यते अप्राप्तकालमपि यदि ततः प्राप्तौ / अकृतागमकृतनाशौ मोक्षानाश्वासता दोषाः // 194 // ] कर्मोपक्राम्यते अर्धमार्ग एव क्षयमुपनीयतेऽप्राप्तकालमपि स्वविपाकापेक्षया यदि ततः प्राप्तावकृतागमकृतनाशौ अपान्तराल एव मरणादकृतागमः प्रभूतकालोपभोग्यस्यारत एव क्षयात्कृ