________________ [ 122 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / - तनाशः मोक्षानाश्वासता अतः मोक्षेऽनाश्वासता अनाश्वासभावः मृत्युवत् अकृतस्यापि कर्मणो भावाशङ्कानिवृत्तेः कृतस्यापि च कर्मक्षयश्च (कर्मणःक्षयश्च !) नाशसंभवाद् एत एव दोषा इति एष पूर्वपक्षः / अधुनोत्तरपक्षमाहनहि दीहकालियस्स वि नासो तस्साणुभूइओ खिप्पं / बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो / 195 / [ न हि दीर्घकालिकस्यापि नाशः तस्यानुभूतितः क्षिप्रम् / बहुकालाहारस्येव द्रुतमग्निकरोगिणो भोगः // 195 // ] न हि नैव दीर्घकालिकस्यापि प्रभूतकालवेद्यस्यापि उपक्रमतः स्वल्पकालवेदनेऽपि नाशस्तस्य कर्मणः अनुभूतित: क्षिप्रं समस्तस्यैव शीघ्रमनुभूतेः / अत्रैव निदर्शनमाह / बहुकालाहारस्येव सेतिकापलभोगेन वर्षशताहारस्येव द्रुतं शीघ्रमग्निकरोगिणो भस्मकव्याधिमतो भोगः स हि तमेकदिवसेनैव भुंक्त व्याधिसामर्थ्यात् न च तत्र किंचिन्नश्यति संपूर्णभोगात् एवमुपक्रमकर्मभोगेऽपि योज्यमिति / एतदेवाहसव्वं च पएसतया भुज्जइ कम्ममणुभावओ भइयं। तेणावस्साणभवे के कयनासादओ तस्स // 196 // [ सर्व च प्रदेशतया भुज्यते कर्म अनुभावतो भाज्यम् / तेनावश्यानुभवे के कृतनाशादयः तस्य- // 196 // ] * तस्य-हन्यमानस्य /