________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 123 ] सर्व च प्रदेशतया कर्मप्रदेशविचटनक्षपणलक्षणया भुज्यते कर्म अनुभावतो भाज्यं विकल्पनीयं विपाकेन तु कदाचि द्भुज्यते कदाचिन्नेति क्षपकश्रेणिपरिणामादावन्यथापि भोगसिद्धेरन्यथा निर्मोक्षप्रसङ्गात् तेन कारणेन अवश्यानुभवे प्रदेशतया नियमवेदने के कृतनोशादयः नैव कृतनाशादय इति / किं चउदयक्खयक्खओवसमोवसमा जंच कंमुणो भणिया। दब्वाइपंचयं पइ जुत्तमुवक्कामणमओ वि / 197 / [ उदयक्षयक्षयोपशमोपशमा: यच्च कर्मणो भणिताः / द्रव्यादिपंचकं प्रति मुक्तमुपक्रामणमतोऽपि // 197 // ] उदयक्षयक्षयोपशमोपशमाः यच्च यस्मात्कारणात्कर्मणो भणितास्तीर्थकरगणधरैः द्रव्यादिपञ्चकं प्रति द्रव्यं क्षेत्रं कालं भवं भावं च प्रतीत्य यथा द्रव्यं माहिषं दधि क्षेत्रं जांगलं कालं प्रावृलक्षणं भवमेकेन्द्रियादिकं भावमौदयादिकमालस्यादिकं वा प्रतीत्योदयो निद्रावेदनीयस्य एवं व्यत्ययादिना क्षयादियोजना कार्या युक्तमुपक्रामणमतोऽपि अनेन कारणेन कर्मण उपक्रमो युज्यत इति इत्थं चैतदङ्गीकर्तव्यम् / अन्य. थेदमनिष्टमापद्यते इति दर्शयन्नाहजइ याणभूइओ चिय खविज्जए कम्म नन्नहाणुमयं / तेणासंखभवज्जियनाणागइकारणत्तणओ।१९८॥