________________ [110 सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / धनहरणव्यापादनादयो न संभवन्त्यत्रान्नदानादौ कि दोषाः संभवन्त्येवेति // तथासयमवि य अपरिभोगो एत्तो चिय एवं गमणमाई वि। सव्वं न जुझइ चिय दीसासंकानिवित्तीओ // 172 / [ स्वयमपि चापरिभोगः अत एव एवं गमनाद्यपि / सर्व न युज्यत एव दोषाशंकानिवृत्तेः // 172 // ] स्वयमपि चापरिभोगोऽन्नादेत ‘एवागन्तकदोषसंभवादेव / एवं गमनाद्यपि गमनमागमनमवस्थानं सर्व न युज्यत एव दोषाशङ्कानिवृत्तेः गच्छतोऽपि कण्टकवेधादिसंभवादागच्छतोऽपि अवस्थानेऽपि गृहपातादिसंभवदर्शनादिति // अणिवित्ती विहु एवं कह कायव्व त्ति भणियदोसाओ। आलोयणं पि अवराहसंभवाओ ण जुत्तं ति।१७३। [अनिवृत्तिरपि खलु एवं कथं कर्तव्येति भणितदोषात् / आलोचनमपि अपराधसंभवात् न युक्तमिति // 173 // ] अनिवृत्तिरप्येवं कथं कर्तव्येति भणितदोषादनिवृत्तित एव राजमयूरादिव्यापादनेन दोषसंभवात् / आलोचनमपि प्रागुपदिष्टं (167) आत्यन्तिककार्यविघ्नत्वात् किमप्येते आलोचयन्तीति चान्यापकारप्रवृत्तेरपराधसंभवान्च युक्तमेवेति // उपसंहरनाह