________________ सटीकश्रावकप्रज्ञप्त्याख्यमकरणं। [111 ] इय अणुभंवलोगागमविरुद्धमेयं न नायसमयाणं / मइविभमस्स हेऊ वयणं भावत्थनिस्सारं / 174 / [ एवं अनुभवलोकागमविरुद्धमेतत् न ज्ञातसमयानाम् / मतिविभ्रमस्य हेतु: वचनं भावार्थनिस्सारम् // 174 // ] इय एवं अनुभवलोकागमविरुद्धमेतत् / निवृत्तौ परिणामशुद्धयनुभवादनुभवविरुद्धं समुद्रादिप्रतरणादिप्रवृत्तेर्लोकविरुद्धं यस्य कस्यचिद्विधानादागमविरुद्ध एतत्पूर्वपक्षवादिवचनमिति योगः / न ज्ञातसमयानां नावगतसिद्धान्तानां मतिविभ्रमस्य हेतुः कथमेतच्छोभनं . मतिविप्लवस्य. कारणं किं विशिष्टं वचनं भावार्थनिस्सारं अभिप्रेतगर्भार्थशून्यमिति / यस्मादेवंतम्हा विसुद्धचित्ता जिणवयणविहीइ दोवि सद्धाला। वहविरइसमुज्जुत्ता पाव छिदंति धिइबलिणो।१७५। [ तस्माद्विशुद्धचित्तौ जिनवचनंविधिना द्वावपि श्रद्धावन्तौ / वधविरतिसमुद्युक्तौ पापं छित्तः धृतिबलिनौ // 175 // ] तस्माद्विशुद्धचित्तौ अपेक्षारहितौ जिनवचनविधिना प्रवचनोक्न प्रकारेण द्वावपि प्रत्याख्यात्प्रत्याख्यापयितारौ श्रद्धावन्तौ वधविरतिसमुद्युक्तौ यथाशक्त्या पालनोद्यतौ पापं छित्तः कर्म क्षेपयतः धृतिबलिनौ अप्रतिपतितपरिणामाविति / सांप्रतमन्यद्वादस्थानकम्