________________ [ 112 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / निच्चाण वहाभावा पयइअणिचाण चेव निबिसया। एगंतेणेव इहं वहविरई केइ मन्नति // 176 // [ नित्यानां बधाभावात्प्रकृत्यनित्यानां चैव निर्विषया। एकान्तेनैव इह बधविरतिः केचन मन्यन्ते // 176 // ] - जीवाः किल नित्या वा स्युरनित्या वेत्युभयथापि दोष: नित्यानां वधामावात् प्रकृत्यनित्यानां चैव स्वभावभगुराणां चैव वधाभावात् निविषया निरालंबना. एकान्तेनैव अत्र पक्षद्वये का वधविरतिः संभवाभावात् केचन वादिनो मन्यन्त इति / - एतदेव भाषपतिएगसहावो निचो तस्स कह वहो अणिञ्चभावाओ। पयइअणिचस्स वि अन्नहेऊभावाणवेक्खाओ।१७७। [ एकस्वभावो नित्यः तस्य कथं वधः अनित्यभावात् / प्रकृत्यनित्यस्यापि अन्यहेतुभावानपेक्षातः // 177 // ] एकस्वभावोऽप्रच्युतानुत्पन्नस्थिरैकधर्मा नित्यः तस्य कथं वधः जिघांसनमनित्यभावादतादवस्थो नानित्यत्वापत्तेरित्यर्थः प्रकृत्यनित्यस्यापि स्वभावतोऽप्यनित्यस्य कथं वध इति वर्तते कथं च नेत्याह अन्यहेतुभावानपेक्षातः स्वव्यतिरिक्तहेतुसत्तानपेक्षत्वात् तत्स्वभावत्वे च स्वत एव निवृत्तेरिति / प्रक्रान्तोपचयमाह