________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 113 ] किं च सरीरा जीवो अन्नोणन्नो व हुज्ज जइ अन्नो। ता कह देहवहमि वि तस्स वहो घडविणासे व्य॥ [किं च शरीरात् जीवः अन्योऽनन्यो वा भवेत् यद्यन्यः / तत्कथं देहवधेऽपि तस्य वधः घटविनाश इव // 178 // ] किं चान्यच्छरीरात्सकाशाज्जीवोऽनन्यो वा भवेत् द्वयी गतिः किं चातः यद्यन्यस्तत्कथं देहवधे प्रकृतिविकारत्वेनार्थान्तरभूतदेहविनाशे तस्य जीवस्य वधो नैवेत्यर्थः घटविनाश इव न हि घटे विनाशिते जीववधो दृष्टः तदर्थान्तरत्वादिति / द्वितीयं विकल्पमधिकृत्याहअह उ अणन्नो देहब्व सोतओसव्वहा विणस्सिज्जा। एवं न पुण्णपावा वहविरई किनिमित्ता भे।१७९। [अथ त्वनन्यः देह इवासौ, ततः सर्वथा विनश्येत् / एवं न पुण्यपापे वधविरतिः किं निमित्ता भवताम् 179] अथ त्वनन्यः शरीराज्जीव इत्येतदाशङ्कयाह / देह इवासौ ततः अनन्यत्वाद्धेतोः सर्वथा विनश्येत् / शरीरं च विनश्यत्येव न परलोकयायि / एवं च न पुण्यपापे भोक्तुरभावात् वधविरतिः किंनिमित्ता मे भवतां विरतिवादिनामिति एष पूर्वपक्षः। अत्रोत्तरमाह