________________ [114 ] सटीकाषकप्रज्ञप्त्याख्यप्रकरणं / निचाणिचो जीवो भिन्नाभिन्नो य तहसरीराओ। तस्स वहसंभवाओतविरई कहमविसयाउ।१८०। [ नित्यानित्यो जीवो भिन्नाभिन्नश्च तथा शरीरात् / तस्य वधसंभवात् तद्विरतिः कथमविषया तु // 180 // ] एकान्तनित्यत्वादिभेदप्रतिषेधेन नित्यानित्यो जी द्रव्यपर्यायरूपत्वात् भिन्नाभिन्नश्च तथा शरीरात् तथोपलब्धेः अन्यथा दृष्टेष्टविरोधात् तस्य वधसंभवाद्धेतोस्तद्विरतिर्वधविरतिः कथमविषया नैवेत्यर्थः। नित्यानित्यत्वव्यवस्थापनायाहनिचाणिचो संसारलोगववहारओ मुणेयब्वो। न य एगसहाव मि संसाराई घडति ति // 181 // [नित्यानित्यः संसारलोकव्यवहारतः मुणितव्यः / न चैकस्वभावे संसारादयो घटन्त इति // 181 // ] नित्यानित्यो जीव इति गम्यते कुतः संसाराल्लोकव्यवहारतो मुणितव्य: त एव सचा नरकं व्रजन्तीत्यादि संसाराद् गत आगत इति लोकव्यवहाराच्च विज्ञेय इति / विपक्षव्यवच्छेदार्थमाह / न चैकस्वभावे न च नित्याद्यकर्मिण्येवात्मनि संसारादयो घटन्त इति गाथासमुदायार्थः // अधुना अवयवार्थमाह /