________________ सटीकश्रावक प्रज्ञप्त्याख्यप्रकरणं / [ 115 ] निच्चस्स सहावं तरमपावमाणस्स कह णु संसारो। जमाणंतरनट्ठस्स चेव एगंतओ मूलो // 182 // [नित्यस्य स्वभावान्तरमप्राप्नुवतः कथं नु संसारः / जन्मानन्तरनष्टस्यैव एकान्ततोऽमूलः // 182 // ] नित्यस्याप्रच्युतानुत्पन्नस्थिरैकस्वभावेन हेतुना स्वभावान्तरमप्रामुवतः सदैवैकरूपत्वात् कथं नु संसारो नैव विचित्रत्वात्तस्य जन्मानन्तरनष्टस्यैव च सर्वथोत्पत्त्यनन्तरापवर्गिणः एकान्ततोऽमूलः तस्यव तथापरिणामवैकल्यत एकान्तेनैवाकारणः कुतः संसार इति। एत्तो चिय ववहारोगमणागमणाइ लोगसंसिद्धो। न घडइ जंपरिणामी तम्हा सो होइ नायवो 183 [ अत एव व्यवहारो गमनागमनादिलॊकसंसिद्धः / न घटते यत् परिणामी तस्मात् असौ भवति ज्ञातव्यः / 183] अत एवानन्तरोदितादेकान्तनित्यत्वादेहेंतोर्व्यवहारो गमनागमनादिन घटते एकत्रैकस्वभावस्याध्यासितदेशव्यतिरेकेण देशान्तराध्यासायोगात् अन्यत्र च तस्यैवाभावेनापरानुत्पत्तेरिति / आदिशब्दात्स्थानशयनासनभोजनादिपरिग्रहः यद्यस्मादेवं तस्मापरिणाम्यसावात्मा भवति ज्ञातव्यः परिणामलक्षणं चेदम्परिणामो ह्यर्थान्तरगमनं न तु सर्वथा व्यवस्थानम् / न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः // 1 // इति /