________________ [ 116 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / ___ एतदेव भावयतिजह कंचणस्सकंचणभावेण अवट्ठियस्स कडगाई। उप्पज्जंति विणसंति चेव भावा अणेगविहा 184 [ यथा कांचनस्य कांचनभावेन अवस्थितस्य कटकादयः / उत्पद्यन्ते विनश्यन्ति चैव भावा अनेकविधाः // 184 // ] यथा काश्चनस्य सुवर्णस्य काञ्चनभावेन सर्वभावानुयायिन्या सुवर्णसत्तया अवस्थितस्य कटकादयः कटककेयूरकर्णालंकारादयः उत्पद्यन्ते आविर्भवन्ति विनश्यति च तिरोभवन्ति च भावाः पर्यायाः अनेकविधा अन्वयव्यतिरेकवन्तः स्वसंवेदनसिद्धा अनेकप्रकारा इति। . एवं च जीवदब्वस्स दव्वपज्जवविसेसभइयस्स। निच्चत्तमणिचत्तं च होइ णाओवलभंतं // 185 // [एवं च जीवद्रव्यस्य द्रव्यपर्यायविशेषभक्तस्य / नित्यत्वमनित्यत्वं च भवति न्यायोपलभ्यमानम् // 185 // ] एवं च जीवद्रव्यस्य किंविशिष्टस्य द्रव्यपर्यायविशेषभक्तस्यानुभवसिद्धया उभयरूपतया विकल्पितस्य नित्यत्वमनित्यत्वं च भवति न्यायोपलभ्यमानम् / पृथग्विभक्तिकरणं द्वयोरपि निमित्तभेदख्यापनार्थ न्यायः पुनरिह नारकाद्यवस्थासु मिथो भिन्नास्वपि जीवान्वय उपलभ्यते तस्मिंश्च नारकादिभेद इति /