________________ [154 सटीकश्रावकप्रज्ञप्त्याख्य प्रकरणं / थूलगपाणाइवायस्स अइयारो न भवइ तहा पइयत्वंति।। आह चपरिसुद्धजलग्गहणं दारुधन्नाइयाण तह चैव। गहियाण वि परिभोगो विहीइ तसरक्खणट्ठाए // [परिशुद्धजलग्रहणं दारुधान्यादीनां तथैव च / गृहीतानामपि परिभोगो विधिना सरक्षणार्थम् // 259 // ] परिशुद्धजलग्रहणं वस्त्रपूतत्रसरहितजलग्रहणमित्यर्थः दारुधान्यादीनां च तथैव परिशुद्धानां ग्रहणं अनीलाजीनां दारूणां अकीटविशुद्धस्य धान्यस्य आदिशब्दात्तथाविधोपस्करपरिग्रहः / गृहीतानामपि परिभोगो विधिना कर्तव्यः परिमितप्रत्युपेक्षितादिना किमर्थं त्रसरक्षणार्थ द्वीन्द्रियादिपालनार्थमिति // उक्तं सातिचारं प्रथमाणुव्रतम् अधुना द्वितीयमुच्यते / थूलमुसावायस्स उ विरई दुच्च स पंचहा होइ / कन्नागोभुआलियनासहरणकडसक्खिज्जे // 260 // [ स्थूलमृषावादस्य तु विरतिः द्वितीयं स पञ्चधा भाति / कन्यागोभूम्यनृतन्यासहरणकूटसाक्षित्वानि // 260 ] स्थूलमृषावादस्य तु विरतिद्वितीयमणुव्रतमिति गम्यते / मृषावादो हि द्विविधः स्थूलः सूक्ष्मश्च / तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलो विपरीतस्त्वितरो न च तेनेहाधिकारः श्रावकधर्माधिकारत्वात्स्थूलस्यैव प्रक्रान्तत्वात् /