________________ सटीकश्रावक प्रज्ञप्त्याख्यप्रकरणं / [ 155 ] तथा चाह / स पंचहा भवति स स्थूलो मृषावादः पञ्चप्रकारो भवति / कन्यागोभूम्यनृतन्यासहरणकूटसाक्षित्वानि / अनृतशब्दः पदत्रये प्रत्येकमभिसंबध्यते / तद्यथा। कन्यानृतमित्यादि तत्र कन्याविषयमनृतं कन्यानृतं अभिन्नकन्यकामेव मिन्नकन्यकां वक्ति विपर्ययो वा / एवं गवानृतं अल्पक्षीरामेव बहुक्षीरां वक्ति विपर्ययो वा / एवं भूम्यनृतं परसत्कामेवात्मसत्कां वक्ति व्यवहारे वा नियुक्तोऽनाभवद्व्यवहारेणैव कस्यचिद्रागाद्यभिभूतो वक्ति अस्येयमाभवतीति / न्यस्यते निक्षिप्यत इति न्यासो रूपकाद्यर्पणं तस्यापहरणं न्यासापहारः अदत्तादानरूपत्वादस्य कथं मृषावादत्वमिति उच्यते अपलपतो मृषावाद इति / कूटसाक्षिकं उत्कोचमन्सराद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्तीति वज्जणमिह पुवुत्तं आह कुमाराइगोयरो कह णु। एयग्गहणाउ चिय गहिओ नणु सो वि दिव्यो॥ [वर्जनमिह पूर्वोक्तं आह कुमारादिगोचरः कथं नु। एतद्ग्रहणादेव च गृहीतो ननु सोऽपि दृष्टव्यः // 2611 // वर्जनमिह मृषावादे पूर्वोक्तं " उवउत्तो गुरुमूले " (108) इत्यादिना ग्रन्थेन आह परः कुमारादिगोचरः कथं नु अकुमारं कुमारं ब्रुवतः आदिशब्दाद विधवाद्यनृतपरिग्रहः अतिदुष्टविवक्षासमुद्भवोऽप्येष भवति न तु सूत्रे उपात्तः तदेतत्कथं आचार्य आह एतद्ग्रहणादेव च कन्यानृतादिग्रहणादेव च ननु गृहीतो