________________ [ 156 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / ऽसावपि कुमारादिगोचरो मृषावादो द्रष्टव्यः उपलक्षणत्वादिति॥ पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं। संपुनपालपट्टा परिहरियव्वा पयत्तेणं // 262 // ___ पूर्ववत् ( 257) सहसा अब्भक्खाणं रहसा य सदारमंतभेयं च / मोसोवएसयं कूडलेहकरणं च वज्जिज्जा / 263 / . [ सहसाभ्याख्यानं रहस्येन च स्वदारमंत्रभेदं च / मृषोपदेशं कूटलेखकरणं च वर्जयेत् // 263 // ] सहसानालोच्याभ्याख्यानं सहसाभ्याख्यानं अभ्याख्यानमभिशपनमसदध्यारोपणं तद्यथा "चौरः त्वं पारदारिको वा" इत्यादि / 1 / रहः एकान्तस्तत्र भवं रहस्यं तेन तस्मिन्याभ्या. ख्यानं रहस्यभ्याख्यानं एतदुक्तं भवति एकान्ते मन्त्रयमाणान् वक्त्येते हीदं चेदं च राजापकारित्वादि मन्त्रयन्ते इति / 2 / स्वदारमन्त्रभेदं च स्वकलाविश्रब्धभाषितान्यकथनं चे. त्यर्थः / 3 / मृषोपदेशमसदुपदेशमिदमेवं चैवं च कुर्वित्यादिलक्षणं / 4 / कूटलेखकरणमन्यमुद्राक्षरबिम्बसरूपलेखकरणं च वर्जयेत् / 5 / यत एतानि समाचरन्नतिचरति द्वितीयमणुव्रतमिति // बुद्धीइ निएऊणं भासिज्जा उभयलोगपरिसुद्धं / सपरोभयाण जं खलु न सव्वहा पीडजणगं तु॥