________________ सटीकश्रावकज्ञप्त्याख्य प्रकरणं / [ 157 ] [बुद्धथा निरीक्ष्य भाषेत उभयलोकपरिशुद्धम् / स्वपरोभयानां यत् खलु न सर्वथा पीडाजनकं तु // 264 // ] बुद्धया निरीक्ष्य सम्यगालोच्येति भावः भाषेत ब्रूयात् उभयलोकपरिशुद्धं इहलोकपरलोकाविरुद्धं स्वपरोभयानां यत् खलु न सर्वथा पीडाजनकं तत्र स्वपीडाजनकं पिङ्गलस्थपतिवचनवत् परपीडाजनक चौरस्त्वमित्यादि एवमुभयपीडाजनकमपि द्रष्टव्यमिति___ उक्तं द्वितीयाणुव्रतं सांप्रतं तृतीयमाहथलमदत्तादाणे विरई तचंदुहा य तं भणियं। सचित्ताचित्तगयं समामओ वीयरागेहिं // 265 // [ स्थूलादत्तादाने विरतिः तच्च द्विधा च तद् भणितम् / सचित्तोचित्तगतं समासतः वीतरागैः // 265 // ] इहादत्तादानं द्विधा स्थूलं सूक्ष्मं च / तत्र परिस्थूलविषयं चौर्यारोपणहेतुत्वेन प्रसिद्धमतिदुष्टाध्यवसायपूर्वकं स्थूलं / विपरीतमितरत् / तत्र स्थूलादत्तादानविषया विरतिनिवृत्तिस्तृतीयमणुव्रतमिति गम्यते / द्विधा च तददत्तादानं भणितं समासतः संक्षेपेण वीतरागैरर्हद्भिरिति योगः सचित्ता चित्तगतमिति सचित्तादत्तादानं अचित्तादत्तादानं च / तत्र द्विपदादेवस्तुनः क्षेत्रादौ सुन्यस्तदुय॑स्तविस्मृतस्य स्वामिना अदत्तस्य चौर्यबुद्धथा ग्रहणं सचित्तादत्तादानं तथा वस्त्रकनकादेरचित्तादत्तादानमिति /