________________ [158 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / भेएण लवणघोडगसुवन्नरुप्पाइयं अणेगविहं / वज्जणमिमस्स सम्म पुव्वुत्तेणेव विहिणा उ॥२६६॥ [भेदेन लवणघोटकरूप्यसुवर्णाद्यनेकविधम् / वर्जनमस्य सम्यक् पूर्वोक्तेनैव विधिना // 266 // ] ___ भेदेन विशेषेणादत्तादानं लवणघोटकरूप्यसुवर्णाद्यनेकविधमनेकप्रकारं लघणघोटकग्रहणात्सचित्तपरिग्रहः रूप्यसुवर्णग्रहणादचित्तपरिग्रह इति वर्जनमस्यादत्तादानस्य,सम्यक् पूर्वोक्तेन विधिना उपयुक्तो गुरुमूले (108) इत्यादिनेति / पडिवज्जिऊण य वयं तस्सइयार जहाविहिं नाउं। संपुन्नपालपट्टा परिहरियव्वा पयत्तेणं // 267 // ___ पूर्ववत् (257), अतिचारानाहवज्जिज्जा तेनाहडतकरजोगं विरुद्धरज्जं च / कुडतुलकूडमाणं तप्पडिरूवं च ववहारं // 26 // [वर्जयेत् स्तेनाहृतं तस्करप्रयोग विरुद्धराज्यं च / कूटतुलाकूटमाने तत्प्रतिरूपं च व्यवहारम् // 268 // ] वर्जयेत् स्तेनाहृतं स्तेनाश्चौरास्तैराहृतमानीतं किंचित्कुंकुमादि देशान्तरात् तत्समर्थमिति लोभान गृह्णीयात् / / तथा तस्करप्रयोगं तस्कराश्चौरास्तेषां प्रयोगो हरणक्रियायां प्रेरणमभ्यनुज्ञा हरत यूयमिति तस्करप्रयोगः एनं च वर्जयेत् / 2 /