________________ - सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [159] विरुद्धराज्यमिति च सूचनाविरुद्धराज्यातिक्रमं च वर्जयेत् विरुद्धनृपयो राज्यं विरुद्धराज्यं तत्रातिक्रमो न हि ताभ्यां तत्र तदागमनमनुज्ञातमिति / 3 / तथा कूटतुलाकूटमाने तुला प्रतीता मानं कुडवादि कूटत्वं न्यूनाधिकत्वं न्यूनया ददाति अधिकया गृह्णाति / 4 / तथा तत्प्रतिरूपव्यवहरणं तेनाधिकृतेन प्रतिरूपं सदृशं तत्प्रतिरूपं तेन व्यवहरणं यद्यत्र घटते व्रीह्यादिघृतादिषु पलश्रीवसादि तस्य तत्र प्रक्षेपेण विक्रयस्तं च वर्जयेत् / 5 / यत एतानि समाचरन्नतिचरति तृतीयाणुव्रतमितिउचियं मुत्तण कलं दवाइकमागयं च उक्करितं / निवडियमवि जाणंतो परस्स संतं न गिन्हिज्जा॥ [ उचितां मुक्त्वा कलां द्रव्यादिक्रमायातं चोत्कर्षम् / निपतितमपि जानानः परस्य सत्कं न गृह्णीयात् / / 269 / / ] उचितां मुक्त्वा कलां पञ्चकशतवृद्वयादिलक्षणां / द्रव्यादिक्रमायातं चोत्कर्ष यदि कथंचित्पूगफलादेः क्रयः संवृत्त इत्यष्टगुणो लाभक: अक्रूराभिसंधिना ग्राह्य एवेत्यर्थः आदिशब्दः स्वभेदप्रख्यापकः तथा निपतितमपि जानानः परस्य सत्कं न गृह्णीयात् प्रयोजनान्तरं चोद्दिश्य समर्पिते प्रतिबुध्यतीत्यादि गृहीत्वा प्रत्यर्पयेदपीति // उक्तं तृतीयाणुव्रतं सांप्रतं चतुर्थमाह