SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ [168 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / अनो वि न विसज्जियव्वो अणाणाए कोई गओ होज्जा जं विसुमरियखेत्तगएण लद्धं अणाणाहिगएण वा तं ग गिहि. ज्जा / उक्तं सातिचारं प्रथमं गुणवतं अधुना द्वितीयमुच्यतेउवभोगपरीभोगेबीयं परिमाणकरणमो नेयं / अणियमियवाविदोसा न भवंति कयम्मि गुणभावो / [उपभोगपरिभोगयोः द्वितीयं परिमाणकरणं विज्ञेयम् / अनियमितव्यापिदोषाः न भवन्ति कृते गुणभावः।।२८४॥] उपभोगपरिभोगयोरिति उपभोगपरिभोगविषये यत्परिमाणकरणं तदेव द्वितीयं गुणवतं विज्ञेयमिति पदघटना पदाथस्तु उपभुज्यत इत्युपभोगः अशनादिरुपशब्दस्य सकुदर्थत्वा सकृद्भुज्यत इत्यर्थः परिभुज्यत इति परिभोगो वस्त्रादिः पुनः पुनः भुज्यत इति भावः परिशब्दस्याभ्यावृत्त्यर्थत्वादयं चात्मक्रियारूपोऽपि भावतो विषये उपचरितो विषयविषयिणोरभेदोपचारादन्त गो वा उपभोगः उपशब्दस्यान्तर्वचनत्वात् बहिर्मोंगो वा परिभोगः परिशब्दस्य बहिर्वाचकत्वादेतत्परिमाणकरणं एतावदिदं भोक्तव्यमुपभोक्तव्यं वा अतोऽन्यन्नेत्येवरूपं अस्मिन् कृते गुणमाह अनियमिते असंकल्पिते ये व्यापिनस्तद्विषयं व्याप्तुं शीला दोषास्ते न भवन्ति कृतेऽस्मिंस्तद्विरतेरिति गुणभावोऽयमत्र गुण इति / सांप्रतमुफ्भोगादिभेदमाह
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy