________________ सटीकश्रावकप्रज्ञप्त्याख्य प्रकरणं / [ 81 ] विप्रतारितोऽप्याजेवः साधुरदोषवानेव, आज्ञानतिक्रमादिति // अपरस्त्वाहथलगपाणाइवायं पञ्चकखंतस्स कह न इयरंमि। होइ णुमइ जइस्स वि तिविहेण तिदंडविरयस्स // [ स्थूरकप्राणातिपातं प्रत्याचक्षाणस्य कथं नेतरस्मिन् / भवत्यनुमतिर्यतेः त्रिविधेन त्रिदण्डविरतस्य // 114 // ] स्थूरकप्राणातिपातं द्वीन्द्रियादिप्राणजिघांसनं प्रत्याचक्षाणस्य तद्विषयां निवृत्तिं कारयतः कथं नेतरस्मिन् कथं न सूक्ष्मप्राणातिपाते भवत्यनुमतियतेर्भवत्येवेत्यभिप्रायः, किंविशिष्टस्य यतेखिविधेन त्रिदण्डविरतस्य मनसा वाचा कायेन सावधं प्रति कृतकारितानुमतिविरतस्य, तथा चान्यत्रापि निषिद्ध एव यतेरेवं जातीयोऽर्थः, यत उक्तं " माणुमती केरिसा तुम्हे " ति // अत्र गुरुराह- . अविहीए होइ चिय विहीइ नो सुयविसुद्धभावस्स। गाहावइसुअचोरग्गहणमोअणा इत्थ नायं तु 115 [अविधिना भवत्येव विधिना न श्रुतविशुद्धभावस्य / गृहपतिसुतचोरग्रहणमोचनं अत्र ज्ञातं तु // 115 // ] अविधिना भवत्येव अणुव्रतग्रहणकाले सम्यगनाख्याय