________________ [80 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [इय अधिके फलभावे न भवति उभयपलिमन्थदोषः / . तदभावेऽपि द्वयोरपि न मृषावादोऽपि गुणभावात् 112 ] इय एवमधिके फलभावे पूर्वावस्थातः अभ्यधिकतरायां फलसत्तायां, न भवति न जायते, उभयपलिमन्थदोषः शिष्याचार्ययोर्मुधाव्यापारदोष इत्यर्थः / एवं परिहतः प्रथमो विकल्पः // द्वितीयमधिकृत्याह / तदभावेऽपि देशविरतिपरिणामाभावेऽपि, द्वयोरपि प्रत्याख्यात्प्रत्याख्यापंयित्रोर्गुरुशिष्ययोर्न मृषावादोऽपि प्राक्चोदितः कुतो गुणभावाद्गुणसंभवादिति / गुणभावमेवाह // तग्गणउ चिय तओ जायइ कालेण असठभावस्स। इयरस्स न देयं चिय सुद्धो बलिओ विजइ असढो [ तद्ग्रहणत एव तको जायते कालेनाशठभावस्य / इतरस्य न देयमेव शुद्धः छलितो ऽपि यतिरशठः 113] तद्ग्रहणत एव विधिना गुरुसन्निधौ व्रतग्रहणादेव तको जायते कालेन असौ देशविरतिपरिणामो भवति कालेन तत् गुरुसन्निधिकारणत्वादित्यर्थः / किंविशिष्टस्य अशठभावस्य श्राद्धस्य सत्त्वस्य शठविषयं दोषमाशङ्कयाह, इतरस्य शठस्य न देयमेव, व्रतं अस्थानदाने भगवदाशातनाप्रसङ्गात् , तदज्ञानविषयं दोषमाशङ्कयाह, शुद्धः छलितोऽपि यतिरशठः छद्मस्थप्रत्यपेक्षणया कृतयत्नो, मायाविना कथंचिद्वयंसितोऽपि * तत्कारणत्वादित्यर्थ