________________ / सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [79] __ यदि न देशविरतिपरिणाम एव तर्हि द्वयोरपि प्रतिपतृप्रतिपादकयोः शिष्याचार्ययोः मृषावादः शिष्यस्यासदभ्युपगमाद्गुरोश्वासदभिधानादिति किं च तदभावे देशविरतिपरिणामस्याभावे पालनस्यापि व्रतसंरक्षणस्याप्यभावः एतदेव स्पष्टयति न च नैव परिणामेनानन्तरोदितेन विना इष्यतेऽभ्युपगम्यते पालनं संरक्षणं, व्रतस्येति प्रक्रमाद्गम्यते, समये सिद्धान्ते, परमार्थेन तस्यैव व्रतन्वादिति / एवं पराभिप्रायमाशङ्कय, पक्षद्वयेऽप्यदोष इत्यावेदयन्नाह / संतेविय परिणामे गुरुमलपवज्जणंमि एस गुणो। दृढया आणाकरणं कम्मखओवसमवुडढी य / 111 // सत्यपि च परिणामे गुरुमूलप्रतिपादने एष गुणः। दृढता आज्ञाकरणं कर्मक्षयोपशमवृद्धिश्च // 111 // ] सत्यपि च परिणामे देशविरतिरूपे, गुरुमूलप्रतिपादने आचार्यसन्निधौ प्रतिपत्तिकरणे, एंष गुण एषोऽभ्युच्चयः यदुत दृढता तस्मिन्नेव गुणे दाढ्य, तथाज्ञाकरणं अहंदाज्ञासंपादनं, यतस्तस्यैष उपदेशो गुरुसन्निधौ व्रतग्रहणं कार्यमिति, तथा कर्मक्षयोपशमवृद्धिश्च तथाकरणे दाढर्याज्ञासंपादनशुभपरिणामतः अधिकतरक्षयोपशमोपपत्तेरिति // इय अहिए फलभावे न होइ उभयपलिमंथदोसो उ / तयभावम्मि वि दुन्हवि न मुसावाओवि गुणभावा।।