________________ [78 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / अत्राह देसविरइपरिणामे सइ कि गुरुणा फलस्स भावाओ। उभयपलिमंथदोसो निरत्थओ मोहलिंगंतु॥१०९॥ [ देशविरतिपरिणामे सति किं गुरुणा फलस्याभावात् / उभयपलिमन्थदोषः निरर्थको मोहलिंगं तु // 109 // ] इह श्रावको यदाणुव्रतं प्रतिपद्यते तदास्य देशविरतिपरिणामः स्याद्वा न वा किं चात उभयथापि दोषः तमेवाह देशविरतिपरिणामे सति, स्वत एव तथाविधाणुव्रतरूपाध्यव. साये सति, किं गुरुणा, किमाचार्येण यत्संनिधौ तद्गृह्यते कुतः फलस्याभावात्तत्संनिधावपि प्रतिपत्तुः स एव फललाभः स च स्वत एव संजात इत्यफला गुरुमार्गणा किं च उभयपलिमन्थदोषः तथाविधाणुव्रतरूपाध्यवसाये सत्येव गुरुसंनिधौ तत्प्रतिपत्त्यभ्युपगमे उभयोराचार्यशिष्ययोर्मुधाव्यापारदोषः स च निरर्थको मोहलिंग एव न हि अमूढस्य प्रयोजनमन्तरेण प्रवृत्तिरिति // द्वितीयं विकल्पमुररीकृत्याह / दुन्हवि य मुसावाओ तयभावे पालणस्स वि अभावो। नय परिणामेण विणा इच्छिज्जइ पालणं समए 110 [द्वयोरपि मृषावादः तदभावे पालनस्याप्यभावः / न च परिणामेन विना इष्यते पालनं समये / 110 / ]