________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 77 ] [स्थूरपाणवधस्य विरतिः द्विविधश्चासौ वधो भवति / . संकल्पारम्भाभ्यां वर्जयति संकल्पतः विधिना // 107 // ] स्थूरकप्राणवधस्य विरतिः, स्थूरा एव स्थूरका द्वीन्द्रियादयस्तेषां प्राणाः शरीरेन्द्रियोच्छ्वासायुबललक्षणास्तेषां वधः जिघांसनं तस्य विरतिनिवृत्तिरित्यर्थः, द्विविधश्चासौ वधो भवति, कथं संकल्पारम्भाम्या, तत्र व्यापादनाभिसंधिः संकल्पः, कृष्यादिकस्त्वारम्भः, तत्र वर्जयति संकल्पतः, परिहरति असौ श्रावकः प्राणवधं संकल्पेन, न त्वारम्भतोऽपि, तत्र नियमात् प्रवृत्तेः, विधिना प्रवचनोक्तेन वर्जयति नतु यथाकथंचिदिति, स चायं विधिः॥ . उवउत्तो गुरुमूले संविग्गो इत्तरं व इयरं वा। अणुदियहमणुसरंतो पालेइ विसुद्धपरिणामो // 18 // [ उपयुक्तो गुरुमूले संविग्नो इत्वरं इतरद्वा / ___अनुदिवसमनुस्मरन् पालयति विशुद्धपरिणामः // 108 // ] उपयुक्तोऽन्तःकरणेन समाहितो, गुरुमूले आचार्यसन्निधौ, संविग्नो मोक्षसुखाभिलाषी न तु ऋद्धिकाम इत्वरं चातुर्मासादिकालावधिना,* इतरद्वा यावत्कथिकमेव, प्राणवधं वर्जयतीति वर्तते, एवं वर्जयित्वानुदिवसमनुस्मरन् , स्मृतिमूलो धर्म इति कृत्वा, पालयति विशुद्धपरिणामः, न पुनस्तत्र चेतसापि प्रवर्तत इति // ___* कालं विधिना