________________ [76 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / सनया च भावसाधुसेवनया, तथोत्तरगुणश्रद्धया च सम्यक्त्वे सत्यणुव्रताभिलाषेण तेषु सत्सु महाव्रताभिलाषेणेति भावः, एवमेतेन प्रकारेणाप्रमादो भवति कर्तव्य एवमप्रमादवानियमवेदनीयस्यापि कर्मणोऽपनयति शक्तिमित्येष शुद्धस्य जीववीर्यस्य करणे उपाय इति // ____ सांप्रतं द्वादशप्रकारं श्रावकधर्ममुपन्यस्यता यदुक्तं पश्चाणुव्रतादीनीति तान्यभिधिसुराहपंच उ अणुव्वयाइं थूलगपाणिवहविरमणाईणि / तत्थ पढम इमं खलु पन्नत्तं वीयरागेहि / 106 / [पञ्च त्वणुव्रतानि स्थूलप्राणवधविरमणादीनि / तत्र प्रथमं इदं खलु प्रज्ञप्तं वीतरागैः // 106 // ] पञ्च त्वणुव्रतानि, तुरेवकारार्थः, पश्चैव, अणुत्वमेषां सर्वविरतिलक्षणमहाव्रतापेक्षया, तथा चाह, स्थूरपाणवधविरमणादीनि स्थूरकप्राणिप्राणवधविरमणमादिशब्दात्स्थूरमृषावादादिपरिग्रहः, तत्र तेष्वणुव्रतेषु प्रथममाद्यमिदं खल्विति इदमेव वक्ष्यमाणलक्षणं, शेषाणामस्यैव वस्तुत उत्तरगुणत्वात् , प्रज्ञप्तं वीतरागैः प्ररूपितमर्हद्भिरिति // थूलगपाणिवहस्साविरई, दुविहो असो वहो होइ। संकप्पारंभेहि य, वज्जइ संकप्पओ विहिणा॥१०७॥