________________ सटीकधीवकप्रज्ञप्त्याख्यप्रकरणं / [75 ] विनिर्जिताः सन्त इह संसारेऽटन्ति, यस्मादनादिमतापि कालेनैकस्य निगोदस्यानन्तभागः सिद्धः असङ्खयेयाश्च निगोदा इति, कथमटन्तीत्यत्राह // शारीरमानसानां दुःखानां पारमलभमानाः, तत्र शारीराणि ज्वरकुष्ठादीनि, मानसानीष्टवियोगादीनि,* उपसंहरन्नाह // तम्हा निच्चसईए बहुमाणेणं च अहिगयगुणमि / पडिवक्खदुगंच्छाए परिणइ आलोयणेणं च 104 [ तस्मान्नित्यस्मृत्या बहुमानेन चाधिकृतगुणे। प्रतिपक्षजुगुप्सया परिणत्यालोचनेन च // 104 // ] यस्मादेवं तस्मानित्यस्मृत्या सदा अविस्मरणेन बहुमानेन च भावप्रतिबन्धेन चाधिकृतगुणे सम्यक्त्वादौ तथा प्रतिपक्षजुगुप्सयो मिथ्यात्वाधुद्वेगेन, परिणत्यालोचनेन च तेषामेव मिथ्यात्वादीनां दारुणफला एते इति विपाकालोचनेन चेति // तोत्थंकरभत्तीए, सुसाहुजणपज्जुवासणाए य / उत्तरगुणसद्धाए, अपमाओ होइ कायव्वो।१०५। [ तीर्थकरभक्त्या सुसाधुजनपर्युपासनया च।। उत्तरगुणश्रद्धयाप्रमादो भवति कर्तव्यः // 105 // ] तथा तीर्थंकरभक्तया परमगुरुविनयेन, सुसाधुजनपर्युपा* मानसानि प्रियविप्रयोगादीनि /