________________ [ 214 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / णामित्यनेन तस्याः सम्यग्विषयमाह / तथाप्यसौ पूजा कर्तव्यैव कुतः परिणामविशुद्धिहेतुत्वादिति न चायं हेतुरसिद्ध इति परिहरतिभणियं च कवनायं दव्वत्थवगोयरं इहं सुत्ते / निययारंभपवत्ताजंचगिही तेण कायव्वा॥३४७॥ [ भणितं च कूपज्ञातं द्रव्यस्तवगोचरं इह सूत्रे / नियतारम्भप्रवृत्ता यच्च गृहिणः तेन कर्तव्या / / 347 // ] भणितं च प्रतिपादितं च कूपज्ञातं कूपोदाहरणं किं विषयमित्याह द्रव्यस्तवगोचरं द्रव्यस्तवविषयं इह सूत्रे जिनागमे "दबत्थए कूवदिद्रुतो" इति वचनात् , तृडपनोदार्थ कूपखननेऽधिकतरपिपासाश्रमादिसंभवेऽप्युद्भवति तत एव काचिच्छिरा यदुदकाच्छेषकालमपि तृडाद्यपगम इति एवं द्रव्यस्तवप्रवृत्तौ सत्यपि पृथिव्याधुपमर्दे पूज्यत्वाद्भगवत उपायत्वात्तत्पूजाकरणस्य श्रद्धावतः समुपजायते तथाविधः शुभः परिणामो यतोऽशेषकर्मक्षपणमपीति / उपपत्त्यन्तरमाह / नियतारम्भप्रवृत्ता यच्च गृहिण इत्यनवरतमेव प्रायस्तेषु तेषु परलोकप्रतिकूलेष्वारम्भेषु प्रवृत्तिदर्शनात् तेन कर्तव्या पूजा कायवधेऽपि उक्तवदुपकारसम्भवात् तावन्ती वेलामधिकतराधिकरणाभावादिति / यदुक्तं न च पूज्यानामुपकारिणीत्येतत्परिजिहीर्षयाह