________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 213 ] ___ अत्र केचिदनधिगतसम्यगागमा ब्रुवत इति चोदकमुखेन तदभिप्रायमाहपूयाए कायवहो पडिकुट्ठो सो अ नेव पुज्जाणं / उवगारिणि त्ति तो सा नो कायव्व त्ति चोएइ॥३४५॥ [पूजायां कायवधः, प्रतिक्रुष्टः स च, नैव पूज्यानाम् / उपकारिणी इति तत् सा न कर्तव्या इति चोदयति 345] पूजायां भगवतोऽपि किल क्रियमाणायां कायवधो भवति पृथिव्याधुपमर्दमन्तरेण तदनुपपत्तेः, प्रतिक्रुष्टः स च कायवधः "सव्वे जीवा न हूंतव्वे" त्यादि वचनात् किं च न च पूज्यानामहतां तच्चैत्यानां वा उपकारिणी पूजा अर्हतां कृतकृत्यत्वात् तचैत्यानामचेतनत्वात् इतिशब्दो यस्मादर्थे यस्मादेवं ततस्तस्मादेव पूजा न कर्तव्येति चोदक इति अत्राहआह गुरू पूयाए कायवहो होइ जइ वि हु जिणाणं। तह वि तई कायव्वा परिणामविसुद्धिहेऊओ॥३४६॥ [आह गुरुः पूजायां कायवधः भवत्येव यद्यपि जिनानाम् / तथापि सा कर्तव्या परिणामविशुद्धिहेतुत्वात् // 346 // ] आह गुरुरित्युक्तवानाचार्यः पूजायां क्रियमाणायां कायअधः पृथिव्याधुपमर्दो यद्यपि भवत्येव जिनानां रागादिजेत 1. कायवहो जइ वि होइ उ जिणाणं /