________________ [ 212 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। रुच्यते तत्रापि च प्रायो भावसुप्ताः श्रावकाः ये प्राप्यापि जिनमतं गार्हस्थमनुपालयन्त्यतो निद्रावबोधद्वारेणाहनवकारेण विबोहो अणुसरणं सावओ वयाइंमि / जोगो चिइवंदणमो पचक्खाणं च विहिपुव्वं / 343 / [नमस्कारेण विवोधः अनुस्मरणं श्रावकः व्रतादौ / __ योग: चैत्यवन्दनं प्रत्याख्यानं च विधिपूर्वकम् // 343 // ] नमस्कारेण विवोध इति सुप्तोत्थितेन नमस्कारः पठितव्यः तथानुस्मरणं कर्तव्यं श्रावकोऽहमिति व्रतादौ विषये ततो योगः कायिकादिः चैत्यवन्दनमिति प्रयत्नेन चैत्यवन्दनं कर्तव्यं ततो गुर्वादीनभिवन्द्य प्रत्याख्यानं च विधिपूर्वकं सम्यगाकारशुद्धं ग्राह्यमिति / गोसे सयमेव इमं काउं तो चेइयाण पूयाई। साहुसगासे कुज्जा पञ्चक्खाणं अहागहियं॥३४४॥ [प्रत्युषसि स्वयमेव इदं कृत्वा तत: चैत्यानां पूजादीनि / साधुसकाशे कुर्यात्प्रत्याख्यानं यथागृहीतम् // 344 // ] गोसे प्रत्युषसि स्वयमेवेदं कृत्वा गृहादौ ततश्चैत्यानां पूजादीनि संमार्जनोपलेपपुष्पधूपादिसंपादनादि कुर्यात्ततः साधुसकाशे कुर्यात्कि प्रत्याख्यानं यथागृहीतमिति / .