________________ [ 210 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / निवसेत्तत्र नगरादौ श्रावकः साधूनां यत्र भवति संपातः संपतनं संपातः आगमनमित्यर्थः / चैत्यगृहाणि च यस्मिंस्तदन्या साधर्मिकाश्चैव श्रावकादय इति गाथासमासार्थः / अधुना प्रतिद्वारं गुणा उच्यन्ते तत्र साधुसंपाते गुणानाहसाहण वंदणेणं नासइ पावं असंकिया भावा। फासुयदाणे निज्जर उवग्गहो नाणमाईणं // 34 // [साधूनां वन्दनेन नश्यति पापं अशंकिता भावाः / प्रासुकदाने निर्जरा उपग्रहो ज्ञानादीनाम् // 340 // ] साधूनां वन्दनेन करणभूतेन किं नश्यति पापं गुणेषु बहुमानात्तथा अशङ्किता भावास्तत्समीपे श्रवणात् प्रासुकदाने निर्जरा कुतः उपग्रहो ज्ञानादीनां ज्ञानादिमन्त एव साधव इति / उक्ताः साधुसंपाते गुणाः। चैत्यगृहे गुणानाहमिच्छादंसणमहणं सम्मदसणविसुद्धिहउं च / चिइवंदणाइ विहिणा पत्नत्तं वीयरागेहिं // 341 // [मिथ्यादर्शनमथनं सम्यग्दर्शनविशुद्धिहेतु च / चैत्यवन्दनादि विधिना प्रज्ञप्तं वीतरागैः // 341 // ] मिथ्यादर्शनमथनं मिथ्यादर्शनं विपरीतपदार्थश्रद्धानरूपं मथ्यते विलोड्यते येन तत्तथा न केवलमपायनिबन्धनकदर्थनमेव किन्तु कल्याणकारणोपकारि चेत्याह सम्यग्दर्शनविशुद्धि