________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [209] तदधीनत्वादिति मनोयोगाधीनत्वात् वाक्तनुकरणादीनां तेन ह्यालोच्य वाचा कायेन वा करोति कारयति चेत्यादि अभिसंधिमन्तरेण प्रायस्तदनुपपत्तेः / प्रकारान्तरं चाह / अथवा मनःकरणं किं सावधयोगमननं करोम्यहं एतदिति सपापव्यापारचिन्तनं प्रज्ञप्तं वीतरागैरिति // कारवणं पुण मणसा चिंतेइ करेउ एस सावज्ज / चिंतेई य कए पुण सुटठुकयं अणुमई होइ॥३३८॥ [कारवणं पुनर्मनसा चिन्तयति करोतु एष सावद्यम् / चिन्तयति च कृते पुनः सुष्टुकृतमनुमतिर्भवति // 338 // ] कारवणं पुनर्मनसा चिन्तयति करोतु एष सावा असावपि चेङ्गितज्ञोऽभिप्रायात्प्रवर्तत एव, चिन्तयति च कृते पुनः सुष्ठुकृतमनुमतिर्भवति मानसी अभिप्रायज्ञो विजानात्यपीति / ___ उक्तः प्रत्याख्यानावधिरधुना श्रावकस्यैव निवासादिविपयां सामाचारों प्रतिपादयन्नाहनिवसिज्ज तत्थ सड्ढो साहणं जत्थ होइ संपाओ। चेइयघराइ जत्थ य तयन्नसाहम्मिया चेव // 339 // ... [निवसेत्तत्र श्राद्धः साधूनां यत्र भवति संपातः / चैत्यगृहाणि च यस्मिन् तदन्यसाधर्मिकाश्चैव // 339 // ] 14 .