________________ [208 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / पुत्रादिसन्ततिनिमित्तमात्रं प्रव्रजितोऽस्य पितेत्येवं विज्ञाय परिभवन्ति केचन तत्सुतं अप्रबजिते तु न एतावद्भिश्चाहोभिरसौ मानुपीभवत्येवेति तत ऊर्ध्व गुणमुपलभ्य एतन्निमित्तं प्रविबजिपुरपि कश्चित्पर्यन्तवर्तिनीमुपासकप्रतिमां प्रतिपद्यत इति तदाह एकादशी प्रपन्नस्य श्रवणभूताभिधानामुपासकप्रतिमामाश्रितस्य जल्पन्ति केचन गृहिणो दीक्षाभिमुखस्य त्रिविधमपि प्रत्याख्यानमिति / आह कहं पुण मणसा करणं कारावणं अणुमई य। जह वइतणुजोगेहिं करणाई तह भवे मणसा॥३३६॥ [आह कथं पुनर्मनसा करणं कारणं अनुमतिश्च / यथा वाक्तनुयोगाभ्यां करणादयः तथा भवेत् मनसा३३६] आह चोदकः कथं पुनर्मनसा करणं कारणमनुमतिश्चान्तर्व्यापारत्वेन परैरनुपलक्ष्यमाणत्वादनुपपत्तिरित्यभिप्रायः / गुरुराह / यथा वाक्तनुयोगाभ्यां करणादयः करणकारणानुमोदनानि तथा भवेद् मनसापिति कथमित्याह / तयहीणत्ता वयतणुकरणाईण अहवा उ मणकरणं / सावज्जजोगमणणं पन्नत्तं वीयरागेहिं // 337 // [तदधीनत्वात् वाक्तनुकरणादीनां अथवा तु- मनःकरणं / सावद्ययोगमननं प्रज्ञप्तं वीतरागैः // 337 // ]