________________ सटीकश्रावकमज्ञप्त्याख्यप्रकरणं / [207] केचनाहन्मतानुसारिण एवापरिणतसिद्धान्ता भणन्ति, किं गृहिणः त्रिविधं न करोतीत्यादि त्रिविधेन मनसेत्यादिना नास्ति संवरणं न विद्यते प्रत्याख्यानं तन्न तदेतदयुक्तं, किमिति यतो निर्दिष्टं प्रज्ञप्तौ भगवत्यां विशेषः (विशिष्य !) अविषये “तिविहं पि" इत्यादिनेत्याह / ता कह निज्जुत्तीए णुमतिनिसेहु त्ति से सविसयम्मि। सामन्ने वानस्थ उ तिविहं तिविहेण को दोसो॥३३४॥ [तत्कथं नियुक्तौ अनुमतिनिषेध इति स स्वविषये / सामान्ये वा अन्यत्र तु त्रिविधं त्रिविधेन को दोषः३३४] यद्येवं तत्कथं नियुक्ती प्रत्याख्यानसंज्ञितायां अनुमतिनिषेध इति " दुविहं तिविहेण पढमउ" इत्यादिवचनेन / अत्रोच्यते / स स्वविषये यत्रानुमतिरस्ति तत्र तनिषेधः सामान्ये वा प्रत्याख्याने स इति, अन्यत्र तु विशेषे स्वयंभूरमणजलधिमत्स्यादौ त्रिविधं त्रिविधेन कुर्वतः को दोषो, न कश्चिदिति / परिहारान्तरमाहपुत्ताइसंतइनिमित्तमित्तमेगारसिं पवन्नस्स / जपंति केइ गिहिणो दिक्खाभिमुहस्स तिविहंपि३३५ [पुत्रादिसन्ततिनिमित्तमात्रम् एकादशी प्रपन्नस्य / जल्पन्ति केचन गृहिणो दीक्षाभिमुखस्य त्रिविधमपि 335]