________________ [ 206 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [न करोति न कारयति कुर्वन्तमन्यमपि नानुजानाति / मनोवाक्कायैः एकः एवं शेषानपि जानीयात् // 331 // ] न करोति स्वयं न कारयत्यन्यैः कुर्वन्तमन्यमपि स्वनिमित्तं स्वयमेव नानुजानाति कथं मनोवाकायैमनसा वाचा कायेन चेत्येवमेको विकल्पः, एवं शेषानपि द्वथादीन् जानीयात् यथोक्तान् प्रागिति / अत्राहन करेईचाइतियं गिहिणो कह होइ देसविरयस्स / भन्नइ विसयस्स बहिं पडिसेहो अणुमईए वि॥३३२॥ [न करोति इत्यादित्रिकं गृहिणः कथं भवति देशविरतस्य / भण्यते विषयाबहिः प्रतिषेधो अनुमतेरपि // 332 // ] न करोतीत्यादित्रिकं अनन्तरोक्तं गृहिणः श्रावकस्य कथं भवति देशविरतस्य विरताविरतस्य सावधयोगेष्वनुमतेरव्यवच्छिन्नत्वात् , नैव भवतीत्यभिप्रायः एवं चोदकाभिप्रायमाशक्य गुरुराह, भण्यते तत्र प्रतिवचनं विषयाद्वहि: प्रतिषेधोऽनुमतेरपि, यत आगतं भाण्डाद्यपि न गृह्णातीत्यादाविति, अत्रैवं व्यवस्थिते सतिकेई भणंति गिहिणो तिविहं तिविहेण नत्थि संवरणं / तं न जओ निदिटुं पन्नत्तीए विसेसेउं // 333 // [ केचन भणन्ति गृहिणः त्रिविधं त्रिविधेन नास्ति संवरणम् / ___ तन्न यतो निर्दिष्टं प्रज्ञप्तौ विशिष्य // 333 // ]