________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [25] मेनावश्यंभावंतयेत्यर्थः कस्य सम्यक्त्वस्य वक्ष्यमाणस्वरूपस्य / पुनस्तं ग्रन्थिमवाप्तसम्यग्दर्शनः सन् बन्धेन कर्मबन्धेन न व्यवलीयते नातिकामयति कदाचित्कस्मिंश्चित्काले न ह्यसावुत्कृष्टस्थितीनि कर्माणि बध्नाति तथाविधपरिणामाभावादिति // अत्राहतंजाविह संपत्ती न जुज्जए तस्स निग्गुणत्तणओ। बहुतरबंधाओ खलु सुत्तविरोहा जओ भणिय // 34 // [तं यावदिह संप्राप्तिन युज्यते तस्य निर्गुणत्वात् / बहुतरबन्धात्खलु सूत्रविरोधात् यतो भणितम् // 34 // ] तं ग्रान्थ यावदिह विचारे संप्राप्तिन युज्यते न घटते / कुतस्तस्य निर्गुणत्वात्तस्य जीवस्प सम्यग्यदर्शनादिगुणरहितत्वात् / निर्गुणस्य च बहुतरबन्धात् खलुशब्दोऽवधारणे बहुतरबन्धादेव / इत्थं चैतदङ्गीकर्तव्यं / सूत्रविरोधादन्यथा सूत्रविरोध इत्यर्थः / कथमिति / आह / यतो भणितं यस्मादुक्तमिति / किमुक्तमिति / आहपल्ले महइमहल्ले कुभं पक्खिवइ सोहए नालिं। अस्संजए अविरए वह बंधइ निज्जरे थोव // 65 // [पल्लेऽतिशयमहति कुम्भं प्रक्षिपति सोधयति नालिम् / असंयतोऽविरतो बहु बध्नाति निर्जरयति स्तोकं // 35 // ]