________________ [26] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / पल्लवत्पल्यस्तस्मिन् पल्ये महति महल्ले अतिशयमहति कुम्भं लाटदेशप्रसिद्धमानरूपं धान्यस्येति गम्यते प्रक्षिपति स्थापयति सोधयति नालिं गृह्णाति सेतिकाम् / एष दृष्टान्तो ऽयमपिनयः। योऽसंयतः सकलसम्यक्त्वादिगुणस्थानेष्व. संयतत्वान्मिथ्यादृष्टिः परिगृह्यते अविरतः काकमांसादेरप्य. निवृत्तो बहु बनाति निर्जरयति स्तोकं स्तोकतरं क्षपयति निर्गुणत्वात् / गुणनिबन्धना हि विशिष्टनिर्जरेति // पल्ले महइमहल्ले कुंभं सोहेइ पक्खिवे नालिं / जे संजए पमत्ते बहु निज्जरे बंधए थोव // 36 // [पल्लेऽतिशयमहति कुम्भं सोधयति. प्रक्षिपति नालिम् / यः संयतः प्रमत्तो बहु निर्जरयति बध्नाति स्तोकम् // 36 // ] पल्ले अतिशयमहति कुम्भं सोधयति प्रक्षिपति नालिं / एष दृष्टान्तोऽयमर्थोपनयः / य: संयतः सम्यग्दृष्टिरीपत्प्रमादवान् प्रमत्तसंयत एव नान्ये बहु निर्जरयति बध्नाति स्तोकं सगुणत्वादिति // पल्ले महइमहल्ले कुभं सोहेइ पक्खिवइ न किंचि। जे संजए अपमत्ते बह निज्जरे बंघइ न किंचि // 37 // [पल्लेऽतिशयमहति कुम्भं सोधयति प्रक्षिपति न किंचित् / यः संयतोऽप्रमत्तो बहु निर्जरयति बध्नाति न किंचित् 37]