________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 147 ] - - एवं च जानिवित्ती सा चेव वहोऽहवावि वहहेऊ / विसओ वि सु चिय फुडं अणुबंधा होइ नायव्वा॥ [ एवं च या अनिवृत्तिः सैव वधो ऽथवापि वधहेतुः / विषयोऽपि सैव स्फुटं अनुबन्धात् भवति ज्ञातव्या // 247 // ] एवं च व्यवस्थिते सति, या अनिवृत्तिः सैव वधो निश्चयतः प्रमादरूपत्वात् , अथवापि वधहेतुरनिवृत्तितो वधप्रवृत्तेः विषयोऽपि वस्तुतो गोचरोऽपि सैवानिवृत्तिर्वधस्य स्फुटं व्यक्तं अनुबंधात्प्रवृत्यध्यवसायानुपरमलक्षणाद्भवति ज्ञातव्या अस्या एव वधसाधकत्वप्राधान्यख्यापनार्थ हेतुविषयाभिधानमदुष्टमेवेति / अमुमेवार्थ समर्थयन्नाहहिंसाइपायगाओ अप्पडिविरयस्त अस्थि अणुबंधो। अत्तो अणिवत्तीओ कुलाइवेरं व नियमेण // 24 // [ हिंसादिपातकात् अप्रतिविरतस्य अस्त्यनुबन्धः / अतः अनिवृत्तेः कुलादिवैरवत् नियमेन // 248 // ] हिंसादिपातकादादिशब्दात् मृषावादादिपरिग्रहः अप्रतिविरतस्यानिवृत्तस्यास्त्यनुबन्धः प्रवृत्यध्यवसायानुपरमलक्षणः उपपत्तिमाह अत एवानिवृत्तेः प्रवृत्तेः कुलादिवैरवनियमेनावश्यंतयेति / दृष्टान्तं व्याचिख्यासुराह