________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं / [ 183 ] तरविमानाच्युतयोस्तयोःसाधुश्रावकयोःस्थितिविशिष्टप्राणसधारणात्मिका यथासङ्ख्यं त्रयस्त्रिंशत्सागरोपमाणि द्वाविंशतिरित्युस्कृष्टा साधोस्त्रयस्त्रिंशदनुत्तरेषु श्रावकस्य तु द्वाविंशतिरच्युत इति गाथार्थः / पलिओवमप्पुहुत्तं तहेव पलिओवमं च इयरा उ / दुण्हं पि जहासंखं भणियं तेलुक्कदंसीहिं॥३०२॥ [पल्योपमपृथक्त्वं तथैव पल्योपमं चेतरा।। द्वयोरपि यथासंख्यं भणिता त्रैलोक्यदर्शिभिः // 302 // ] पल्योपमपृथक्त्वं तथैव पल्योपमं चेतरा जघन्या सौधर्म एव साधोः पल्योपमपृथक्त्वं स्थितिः द्विप्रभृतिरा नवभ्यः पृथक्त्वं श्रावकस्य तु पल्योपममिति अत एवाह द्वयोरपि साधुश्रावकयोभणिता त्रैलोक्यदर्शिभिः स्थितिर्गम्यते इति द्वारं / तथा गतिभैदिकेत्याह- . पंचसु ववहारेणं जइणो सड्ढस्स चउसु गमणं तु। गइसु चउपंचमासु चउसु य अन्ने जहाकमसो।३०३। [व्यवहारेण पञ्चसु यते: श्राद्धस्य चतसृषु गमनमिति / गतिषु चतुःपंचमासु चतसृषु चान्ये यथाक्रमशः // 303 // व्यवहारेण सामान्यतो लोकस्थितिमङ्गीकृत्य पञ्चसु यतेः साधोः श्रावकस्य चतसृषु गमनमिति / कासु गतिषु नार