________________ [ 182 ] सटीक श्रावकप्रज्ञप्त्याख्य प्रकरणं / सामायिक एव कृते न शेषकालं श्रमण इव साधुरिव श्रावको भवति यस्मादेतेन कारणेन बहुशोऽनेकशः सामायिक कुर्यादिति अत्र श्रमण इवोक्तं न तु श्रमण एवेति यथा समुद्र इव तडागं न तु समुद्र एवेत्यभिप्राय इति / द्वारं उपपातो विशे. षक इत्येतदाहअविराहियसामन्नस्स साहुणो सावगम्स य जहन्नो। सोहंमे उववाओ भणिओ तेलुकदंसीहिं // 30 // [अविराघितश्रामण्यस्य साधोः श्रावकस्य च जधन्यः / सौधर्मे उपपातो भणितः त्रैलोक्यदर्शिभिः // 300 // ] अविराधितश्रामण्यस्य प्रव्रज्यादिवसादारभ्याखण्डितश्रमणभावस्य साधोः श्रावकस्य च अविराधितश्रावकभावस्येति गम्यते जघन्यः सर्वस्तोकः सौधर्मे प्रथमदेवलोके उपपातो भवति जन्म भणित उक्तः त्रैलोक्यदर्शिभिः सर्वज्ञेरिति // उक्कोसेण अणुत्तरअच्चुयकप्पेसु तत्थ तेमि ठिई। तित्तीससागराइं बावीसं चेव उक्कोसा // 30 // [ उत्कृष्टतोऽनुत्तराच्युतकल्पयोः तत्र तयोः स्थितिः / त्रयस्त्रिंशत्सागराणि द्वाविंशतिश्चोत्कृष्टा // 301 // ]. उत्कृष्टतोऽनुत्तराच्युतकल्पयोरिति साधोरनुत्तरविमानेषु श्रावकस्याच्युतकल्प उपपात इति द्वारं / तत्र तयोरिति तत्रानु