________________ [ 226 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / करणे प्रमादाढेतोर्दोषो भणितो जिनेन्द्र विभागायातशक्यकुशलाप्रवृत्तेरिति / उपसंहरन्नाहएवं सामायारिं नाऊण विहीइ जे पउंजंति / ते हुति इत्थ कुसला सेसा सव्वे अकुसला उ॥३७५॥ [एतां सामाचारी ज्ञात्वा विधिना ये प्रयुंजते / ते भवन्त्यत्र कुशलाः शेषाः सर्वे अकुशला एव // 375 // ] एतामनन्तरोदितां सामाचारों व्यवस्थां. ज्ञात्वा विधिना ये प्रयुंजते यथावद्ये कुर्वन्तीत्यर्थः ते भवन्त्यत्र विहरणविधौ कुशलाः शेषा अशुकला एवानिपुणा एव न चेयमयुक्ता सदिष्टवन्दनकथनतीर्थस्नपनादिदर्शनादिति / श्रावकस्यैव विधिशेषमाहअन्ने अभिग्गहा खलु निरईयारेण हुति कायव्वा। पडिमादओ विय तहा विसेसकरणिज्जजोगाओ३७६ [अन्ये चाभिग्रहाः खलु निरतिचारेण भवन्ति कर्तव्याः / प्रतिमादयोऽपि च तथा विशेषकरणीययोगात् // 376 / / ] अन्ये चाभिग्रहाः खलु अनेकरूपा लोचकृतघृतप्रदानादयः निरतिचारेण सम्यक् भवन्ति कर्तव्या आसेवनीया इति प्रतिमादयोऽपि च तथा शेषकरणीययोगा इति प्रतिमा दर्शनादिरूपा यथोक्तं "दंसणवये "त्यादि आदिशब्दादनित्यादिभा