________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [85] प्रत्याख्याते इह परित्यक्ते अत्र कस्मिन्नागरकजिघांसने निर्गतमपि निःक्रान्तमपि ततो नगरात् तं नागरकं नतो व्यापादयतोऽन्यत्रापि न किं जायते वघविरतिभङ्गः प्रत्याख्यानभङ्गो जायत एवेति / इत्थं दृष्टान्तमभिधाय अधुना दार्टान्तिकयोजनां कुर्वनाहइय अविसेसा तसपाणघायविरइं काउ तं तत्तो। थावरकायमणुगयं वहमाणस्स धुवो भंगो / 121 // [ इय अविशेषात् त्रसप्राणघातविरतिं कृत्वा तं ततः / स्थावरकायमनुगतं प्रतो ध्रुवो भङ्गः // 121 // ] इय एवमविशेषात्सामान्येनैव सप्राणघातविरतिमपि कृत्वा तं त्रसं ततस्त्रसकायात् द्वीन्द्रियादिलक्षणात् स्थावरकायमनुगतं विचित्रकर्मपरिणामात्पश्चात्पृथिव्यादिषून्पन्नं घ्नतो व्यापादयतो ध्रुवो भङ्गोऽवश्यमेव भङ्गो निवृत्तेरिति / संभवति चैतद्यत्रसोऽपि मृत्वा श्रावकारम्भविषये स्थावरः प्रत्यागच्छति स च तं व्या. पादयतीति ततश्च विशेष्यप्रत्याख्यानं कर्तव्यमनवद्यत्वादिति / आह चतसभूयपाणविरई तब्भावंमि वि न होइ भंगाय। खीरविगइपच्चखाणे दहियपरिभोगकिरिय व्व।१९२। [त्रसभूतप्राणविरतिः तद्भावेऽपि न भवति भङ्गाय / . क्षीरविकृतिप्रत्याख्यातदधिपरिभोगक्रियावत् // 122 // ]