________________ [ 86 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / सभूतप्राणविरतिस्त्रसपर्यायाध्यासितप्राणवधनिवृत्तिः तद्भावेऽपि स्थावरगतव्यापत्तिभावेऽपि न भवति प्रत्याख्यान भङ्गाय विशेष्यकृतत्वात् किंवत् क्षीरविकृतिप्रत्याख्यातदधिपरिभोगक्रियावत् न हि क्षीरविकृतिप्रत्याख्यातुर्दधिपरिभोगक्रिया प्रत्याख्यानभङ्गाय क्षीरस्यैव दधिरूपत्वापत्तावपि विशेष्यप्रत्याख्यानादितिः // उपसंहरनाहतम्हा विसेसिऊणं इय विरई इत्थ होइ कायवा। अब्भक्खाणं दुन्ह वि इय करणे नावगच्छति / 123 // [तस्माद्विशिष्य इय विरतिरत्र भवति कर्तव्या / . अभ्याख्यानं द्वयोरपि इयकरणे नावगच्छन्ति // 123 // ] ... यस्मादेवं तस्माद्विशिष्य भूतशब्दोपादानेन इय एवं विरतिनिवृत्तिस्त्र प्राणातिपाते भवति कर्तव्या अन्यथा भङ्गप्रसङ्गात् / इति पूर्वपक्षः / अत्रोत्तरमाह / अभ्याख्यानं तद्गुणशून्यत्वेऽपि तद्गुणाभ्युपगमलक्षणं द्वयोरपि प्रत्याख्यातृप्रत्याख्यापयित्रोराचार्यश्रावकयोः इयकरणे भूतशब्दसमन्वितप्रत्याख्यानासेवने नावगच्छन्ति नावबुध्यन्ते पूर्वपक्षवादिन इति // तथा चाह ओमे तादत्थे व हुज्ज एसित्थ भयसद्दो ति / उभओ पओगकरणं न संगयं समयनीईए 124 x प्रत्याख्यातत्त्वादिति