________________ श्री-शंखेश्वर-पार्श्वनाथाय नमः। उमास्वातिवाचककृतश्रावकप्रज्ञप्त्याख्यप्रकरणम् / हरिभद्रसरिविरचितव्याख्यासमेतम् // स्मरणं यस्य सत्वानां तीव्रपापौघशान्तये / उत्कृष्टगुणरूपाय तस्मै श्रीशान्तये नमः॥१॥ स्वपरोपकाराय श्रावकप्रज्ञप्त्याख्यप्रकरणस्य व्याख्या प्रस्तूयते / तत्र चादावेवाचार्यः शिष्टसमयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थ चेदं गाथासूत्रमुपन्यस्तवान् / अरहते वंदित्ता सावगधम्म दुवालसविहं पि / वोच्छामि समासेणं गुरूवएसाणुसारेणं // 1 // [ अर्हतो वन्दित्वा श्रावकधर्म द्वादशविधमपि / वक्ष्ये समासेन गुरूपदेशानुसारेण // 1 // ] इह हि शिष्टानामयं समयो यदुत शिष्टाः कचिदिष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्त इत्ययमप्याचार्यों न हि न शिष्ट इत्यतस्तत्समयप्रतिपालनाय, तथा श्रेयांसि बहुविनानि भवन्तीति (उक्तं च