________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 37] तविहखओवसमओ तेसिमणणं अभावओ चेव। एवं विचित्तरूवं सनिबन्धणमो मुणेयब्वं // 51 // [तद्विधक्षयोपशमतस्तेषामणूनां अभावतश्चैव / एवं विचित्ररूपं सनिबन्धनमेव मुणितव्यं // 51 // ] तद्विधक्षयोपशमतस्तेषामणूनां मिथ्यात्वाणूनामित्यर्थः अभावतश्चैव तेषामेवेति वर्तते एवं विचित्ररूपं क्षायोपशमिकादिभेदेनेति भावः / सनिवन्धनमेव सकारणं मुणितव्यं / तथाहि त एव मिथ्यात्वपरमाणवस्तथाविधात्मपरिणामेन क्वचितथा शुद्धिमापद्यते यथा क्षायोपशमिकं सम्यक्त्वं भवति तत्रापि क्वचित्सातिचारं कालापेक्षया क्वचिनिरतिचारं, अपरे तथा यथौपशमिकं, क्षयादेव क्षायिकमिति // ___ अपरेऽप्यस्य भेदाः संभवन्तीति कृत्वा तानपि सूचयन्नाह // कि चेहुवाहिभेया दसहावीमं परूवियं समए / आहेण तंपिमेसि भेयाणमभिन्नरूवं तु // 52 // [किं चेहोपाधिभेदात् दशधापीदं प्ररूपितं समये / ओघेन तदपि अमीषां भेदानामभिन्नरूपं तु // 52 // ] किं चेहोपाधिभेदादाज्ञादिविशेषणभेदादित्यर्थः दशधापीदं दशप्रकारमप्येतत्सम्यक्त्वं प्ररूपितं समये आगमे / यथोक्तं प्रज्ञापनायां