________________ [36] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ यद्यथा भणितं तत्तथा करोति सति यस्मिन् कारकं तत्त / रोचकसम्यक्त्वं पुनः रुचिमात्रकरं मुणितव्यं // 49 // ] यद्यथा भणितं सूत्रेऽनुष्ठानं तत्तथा करोति सति यस्मिन्सम्यग्दर्शने परमशुद्धिरूपे कारकं तत्तु / कारयतीति कारकं // रोचकसम्यक्त्वं पुनः रुचिमोत्रकरं मुणितव्यं विहितानुष्ठाने तथाविधशुद्धथभावात् , रोचयतीति रोचकम् // सयमिह मिच्छदिट्ठी धम्मकहाईहि दीवइ परस्स। सम्मत्तमिणं दीवग कारणफलभावओ नेयं // 50 // [स्वयमिह मिथ्यादृष्टिः धर्मकथादिभिर्दीपयति परस्य / सम्यक्त्वमिदं दीपकं कारणफलभावतो ज्ञेयं // 50 // ] स्वयमिह मिथ्यादृष्टिरभव्यो भव्यो वा कश्चिदङ्गारमर्दकवत् / अथ च धर्मकथादिभिधर्मकथया मातृस्थानानुष्ठानेनातिशयेन वा केनचिद्दीपयतीति प्रकाशयति परस्य श्रोतुः सम्यक्त्वमिदं व्याकम् / आह मिथ्यादृष्टेः सम्यक्त्वमिति विरोधः सत्यं किन्तु कारणफलभावतो ज्ञेयं तस्य हि मिथ्यादृष्टेरपि यः परिणामः स खलु प्रतिपत्तृसम्यक्त्वस्य कारणभावं प्रतिपद्यते तद्भावभावित्वात्तस्य, अतः कारणे . एव कार्योपचारात्सम्यक्त्वाविरोध: यथायुघृतमिति / / समस्तस्यैव भावार्थमुपदर्शयति