________________ [ 176 ] सटीकश्रावकाशप्त्यास्यप्रकरणं / शिक्षा परमपदप्रापिका क्रिया तस्याः पदं शिक्षापदं तच्च प्रथममायं सूत्रक्रमप्रामाण्यात्सामायिकमेव समो रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत्पश्यति आयो लाभः प्राप्तिरिति पर्यायाः समस्यायः समायः समो हि प्रतिक्षणमपूर्वैनिदर्शनचारित्रपर्यायनिरुपमसुखहेतुभिरधःकृतचिन्तामणिकल्पद्रुमोपीयुज्यते स एव समायः प्रयोजनमस्य क्रियानुष्ठानस्येति मामायिकं समाय एव वा भवं सामायिकमिति शब्दार्थः। एतत्स्वरूपमाह-तत्तु सामायिकं ज्ञातव्यं विज्ञेयं स्वरूपतः कीदृ. गिति आह सावद्येतरयोगानां यथासंख्यं वर्जनासेवनरूपमिति तत्रावा. गर्हितं पापं सहावद्येन सावा योगा व्यापाराः तेषां वर्जनारूपं परित्यागरूपमित्यर्थः कालावधिनैवेति गम्यते मा भृत्सावधयोगपरिवर्जनामात्रमपापव्यापारासेवनाशून्यमेव सामायिकमिति अत आह इतरयोगासेवनारूपं निरवद्ययोगप्रतिसेवनारूपं चेति सावद्ययोगपरिवर्जनवनिरवद्ययोगपरिसेवनेऽपि अहर्निशं यत्रः कार्य इति दर्शनार्थमेतदिति / एत्थ पुण सामायारी " सामाइयं सावगेणं कहं कायव्वंति इह सावगो दुविहो इढिपत्तो अणिढिपत्तो य जो सो अणिढिपत्तो सो चेइयघरे साहुसमीवे धरे वा पोसहसालाए वा जत्थ वा वीसमइ अच्छइ वा निव्वावारो सवत्थ करेइ सव्वं चउसु ठाणेसु णियमा कायव्वं चेइयघरे साहुमूले पोसहसालाए घरे आवस्सगं करोति त्ति तत्थ जइ साहुसगासे करेइ तत्थ को