________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 179 ] आरंभाणुमईओ कणगाइसु अग्गहाणिवित्तीओ। भुज्जो परिभोगाओ भेओ एसिं जओ भणिओ।२९४। [आरंभानुमतेः कनकादिषु आग्रहानिवृत्तेः / भूयः परिभोगात् भेदः एतयोः यतः भणितः // 294 // ] आरंभानुमतेः श्रावकस्यारंभेष्वनुमतिरव्यवच्छिन्नैव तथा तेषां प्रवर्तितत्वात् कनकादिषु द्रव्यजातेषु आग्रहानिवृत्तेरात्मीयाभिमानानिवृत्तेरनिवृत्तिश्च भूयः परिभोगादन्यथा सामायिकोत्तरकालमपि तदपरिभोगप्रसङ्गः सर्वथा त्यक्तत्वात् भेदश्चै. तयोः साधुश्रावकयोः यतो भणित उक्तः परममुनिभिरिति / भेदाभिधित्सयाहसिक्खा दुविहा गाहा उववायट्ठिइगईकसाया य। बंधता वेयंता पडिवज्जाइक्कमे पंच // 295 // [शिक्षा द्विविधा गाथा उपपातस्थितिगतिकषायाश्च / बन्धः वेदना प्रतिपत्तिरतिक्रमाः पञ्च // 295 // ] शिक्षाकृतः साधुश्रावकयोर्भेदः सा च द्विविधा ग्रहणासेवनारूपेति वक्ष्यति तथा गाथा भेदिका, सामाइयंमि उ कए इत्यादिरूपेत्ति वक्ष्यत्येव तथोपपातो भेदकः स्थितिमैदिका गतिभैदिका कषायाश्च भेदका बन्धश्च भेदकः वेदना भेदिका प्रतिपत्तिभैदिका अतिक्रमो भेदक इत्येतत् सर्वमेव