________________ [ 180 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। प्रतिद्वारं स्वयमेव वक्ष्यति ग्रन्थकारः पञ्चाथवा किं चेति पाठान्तरार्थसहितमपि इति द्वारगाथासमुदायार्थः। अधुनाद्यद्वारावयवार्थप्रतिपादनायाहगहणासेवणरूवा सिक्खा भिन्ना य साहुसड्ढाणं। पवयणमाईचऊदसपुव्वंता पढमिया जइणो॥२९६॥ [ग्रहणासेवनरूपा शिक्षा. भिन्ना च साधुश्राद्धयोः / प्रवचनमात्रादिचतुर्दशपूर्वान्ता प्रथमा यतेः // 296 // ] ग्रहणासेवनरूपा शिक्षेति शिक्षाभ्यासः सा द्विप्रकारा ग्रहणरूपासेवनरूपा च भिन्ना चेयं साधुश्रावकयोः अन्यथारूपा साधोरन्यथारूपा श्रावकस्येति / तथा चाष्टप्रवचनमात्रादिचतुदेशपूर्वान्ता प्रथमा यतेरिति ग्रहणशिक्षामधिकृत्य साधुः सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातरत्रिगुप्तिपश्चसमितिरूपा उत्कृष्टतस्तु बिंदुसारपर्यन्तानि चतुर्दशपूर्वाणि गृहणातीति // पवयणमाईछज्जीवणियंता उभयओ वि इयरस्स। पिडेसणा उ अत्थे इत्ता इयरं पवक्खामि // 297 / / [प्रवचनमातृषड्जीवनिकायान्ता उभयतोऽपि इतरस्य / पिण्डेषणा त्वर्थतः अतः इतरां प्रवक्ष्यामि // 297 // .] प्रवचनमातृषड़जीवनिकायान्ता उभयतोऽपि सूत्रतोऽर्थतश्चेतरस्य श्रावकस्य पिण्डैषणार्थतः न सूत्रत इति एतदुक्तं भवति