________________ [34] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [क्षीणे उदीर्णे ऽनुदीर्यमाणे च शेषमिथ्यात्वे / / अन्तर्मुहूर्तमानं औपशमिकं सम्यक्त्वं लभते जीवः 46] क्षीण एवोदीर्णे अनुभवेनैव भुक्त इत्यर्थः अनुदीर्यमाणे च मन्दपरिणामतयो उदयमगच्छति सति कस्मिन् शेषमिथ्यात्वे विष्कम्भितोदय इत्यर्थः अन्तर्मुहूर्तमानं कालं तत ऊर्ध्व नियामकाभावेन नियमेन मिथ्यात्वप्राप्तेरेतावन्तमेव कालमिति किं औपशमिकं सम्यक्त्वं लभते जीव इति // इदमेव दृष्टान्तेन स्पष्टतरमभिधित्सुराहऊसरदेसं दढिल्लयं व विज्झाइ वणदवो पप्प / इय मिच्छस्साणुदए उवसमसम्म लहइ जीवो 47 [ ऊपरदेशं दग्धं वा विध्यायति वनदवः प्राप्य / इय मिथ्यात्वस्यानुदये औपशमिकं सम्यक्त्वं लभते जीवः] __ऊपरदेशं ऊपरविभागं ऊपरं नाम यत्र तृणादेरसंभवः दग्धं वा पूर्वमेवाग्निना विध्यायति वनदवो दावानलः प्राप्य / कुतस्तत्र दाह्याभावात् / एष दृष्टान्तोऽयमर्थोपनयः इय एवं तथाविधपरिणामान्मिथ्यात्वस्यानुदये सति औपशमिकं सम्यक्त्वं लभते जीव इति / वनदवकल्पं ह्यत्र मिथ्यात्वं ऊपरादिदेशस्थानीयं तथाविधपरिणामकण्डकमिति॥आह क्षायोपशमिकादस्य को विशेष इति / उच्यते / तत्रोपशान्तस्यापि मिथ्यात्वस्य प्रदेशानुभवोऽस्ति न त्वौपशमिके। अन्ये तु