________________ सटीकाधकप्रज्ञप्त्याख्यप्रकरणं / [33] स्फटिकमणिरक्ततावदसहज इति / आह यदि परिणामः सम्यक्वं ततो मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकमित्येतद्विरुध्यते मोहनीयभेदयोरेव मिश्रीभावपरिणतयोर्वेद्यमानत्वात् , न विरुध्यते तथाविधपरिणामहेतुत्वेन तयोरेव सम्यक्त्वोपचारात् / कृतं विस्तरेणेति / क्षायोपशमिकानन्तरमौपशमिकमाहउवसमगसेढिगयस्स होइ उवसामियं तु सम्मत्तं / जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्मं॥ [ उपशमकश्रेणिगतस्य भवत्यौपशमिकं तु सम्यक्त्वम् / यो वा अकृतत्रिपुञोऽक्षपितमिथ्यात्वो लभते सम्यक्त्वम् ] उपशमकश्रेणिगतस्य औपशमिकी श्रेणिमनुप्रविष्टस्य भवत्यौपशमिकमेव सम्यक्त्वं तुरवधारणे अनन्तानुबन्धिनां दर्शनमोहनीयम्य चोपशमेन निवृत्तमिति कृत्वा औपशमिकं / यो वा अकृतत्रिपुञ्जस्तथाविधपरिणामोपेतत्वात्सम्यङ्गिथ्यात्वोभयानिवर्तितत्रिपुञ्ज एव अक्षपितमिथ्यात्वोऽक्षीणमिथ्यात्वदर्शनः क्षायिकव्यवच्छेदार्थमेतत् लभते प्रामोति सम्यक्त्वं तदप्यौपशमिकमेवेति / अमुमेवार्थ स्पष्टयन्नाहखीणमि उइन्न मि अ अणुइज्जते अ सेसमिच्छत्ते / अंतोमुहुत्तमित्तं उवसमसम्मं लहइ जीवो // 46 //