________________ [32] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / नाम विष्कम्भितोदयमपनीतमिथ्यात्वस्वभावं च विष्कम्भितोदयं शेषमिथ्यात्वमपनीतमिथ्यात्वस्वभावं मदनकोद्रवोदाहरणत्रिपुजिन्यायशोधितं सम्यक्त्वमेव // आहेह विष्कम्भितोदयस्य मिथ्यात्वस्यानुदीर्णता युक्ता, न पुनः सम्यक्त्वस्य, विपाकेन वेदनात् / उच्यते। सत्यमेतत् , किं त्वपनीतमिथ्यात्वस्वभावत्वात्स्वरूपेणानुदयात्तस्याप्यनुदीर्णोपचार इति // यद्वानुदी. र्णत्वं मिथ्यात्वस्यैव युज्यते न तु सम्यक्त्वस्य / कथं / मिथ्यात्वं यदुदीर्णं तत् क्षीणं अनुदीर्णमुपशान्तं चेति / चशब्दस्य व्यवहितप्रयोगः / ततश्चानुदीर्ण. मिथ्यात्वमुपशान्तं च सम्यक्त्वं परिगृह्यते / भावार्थः पूर्ववत् / तदेवं मिश्रीभावपरिणतं क्षयोपशमस्वभावमापन्नं वेद्यमानमनुभूयमानं मिथ्यात्वं प्रदेशानुभवेन सम्यक्त्वं विपाकेन क्षयोपशमाम्यां निवृत्तमिति कृत्वा क्षायोपशमिकं सम्यक्त्वमुच्यते / आहेदं सम्यक्त्वमौदयिको भावः मोहनीयोदयभेदत्वात् अतोऽयुक्त मस्य क्षायोपशमिकत्वं, न अभिप्रायापरिज्ञानात्सम्यक्त्वं हि सांसिद्धिकमात्मपरिणामरूपं ज्ञानवत् न तु क्रोधादिवत् कर्माणुसंपर्कजं तथाहि तावति मिथ्यात्वधनपटले क्षीणे तथानुभवतोऽपि स्वच्छाभ्रकल्पान् सम्यक्त्वपरमाणून् तथाविधसवितृप्रकाशवत् सहज एवासौ तत्परिणाम इति क्षायोपशमनिष्पनश्चायं तमन्तरेणाभावात् न घुदीर्णक्षयादनुदीर्णोपशमव्यतिरेकेणास्य भावः क्रोधादिपरिणामः पुनरुपधानसामर्थ्यापादित