________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [203 ]. सीयालं भंगसयं गिहिपञ्चक्खाणभेयपरिमाणं / तं च विहिणा इमेणं भावेयव्वं पयत्तेणं // 329 // [सप्तचत्वारिंशदधिकं भङ्गशतं गृहिप्रत्याख्यानभेदपरिमाणं / तच्च विधिना अनेन भावयितव्यं प्रयत्नेन // 329 // ] सप्तचत्वारिंशदधिकं शतं गृहिप्रत्याख्यानभेदानां परिमाणमियत्ता तच्च विधिना अनेन वक्ष्यमाणेन भावयितव्यं प्रयत्नेनावहितचेतोमिरिति / विधिमाहतिन्नि तिया तिनि दुया तिन्निकिक्काय हंति जोगेसु। ति दु एक्कं ति दु एक्कं ति दु एक्कचेव करणाइं॥ [त्रयस्त्रिकाः त्रयो द्विकाः त्रय एककाश्च भवन्ति योगेषु / त्रीणि द्वयमेकं त्रीणि द्वयमेकं त्रीणि द्वयमेकं चैव करणानि // 330 // ]1 त्रयस्त्रिकास्त्रयो द्विकास्त्रय एककाश्च भवन्ति योगेषु कायवाग्मनोव्यापारलक्षणेषु त्रीणि द्वयमेकं 3 चैव करणानि मनोवाकायलक्षणानीति पदघटना / भावार्थस्तु स्थापनया निर्दिश्यते सा चेयं : 9 One MS. of the original text adds the following